|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.46. अध्यायः 046
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
कृष्णेन युधिष्ठिरम्प्रति पार्वतीपरमेश्वराभ्यां स्यस्मै वरप्रदानकथनम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
कृष्ण उवाच।
मूर्ध्ना निपत्य नियतस्तेजःसन्निचये ततः।
परमं हर्षमागत्य भगवन्तमथाब्रवम्॥ 13-46-1(83116)
धर्मे दृढत्वं युधि शत्रुघातं
यशस्तथाऽग्र्यं परमं बलं च
योगप्रियत्वं तव सन्निकर्षं
वृणे सुतानां च शतं शतानि॥ 13-46-2(83117)
एवमस्त्विति तद्वाक्यं मयोक्तः प्राह शङ्करः॥ 13-46-3(83118)
ततो मां जगतो माता धारिणी सर्वपावनी।
उवाचोमा प्रणिहिता शर्वाणी तपसां निधिः।
दत्तो भगवता पुत्रः साम्बो नाम तवानघ॥ 13-46-4(83119)
मत्तोप्यष्टौ वरानिष्टान्गृहण त्वं ददामि ते।
प्रणम्य शिरसा सा च मयोक्ता पाण्डुनन्दन॥ 13-46-5(83120)
द्विजेष्वकोपं पितृतः प्रसादं
शतं सुतानां परमं च भोगम्।
कुले प्रीतिं मातृतश्च प्रसादं-
शमप्राप्तिं प्रवृणे चापि दाक्ष्यम्॥ 13-46-6(83121)
उमोवाच। 13-46-7x(6860)
एवं भविष्यत्यमरप्रभाव
नाहं मृषा जातु वदे कदाचित्।
भार्यासहस्राणि च षोडशैव
तासु प्रियत्वं च तथाऽक्षयं 13-46-7(83122)
प्रीतिं चाग्र्यां बान्धवानां सकाशा-
द्ददामि तेऽहं वपुषः काम्यतां च।
भोक्ष्यन्ते वै सप्ततिं वै शतानि
गृहे तुभ्यमतिथीनां च नित्यम्॥ 13-46-8(83123)
वासुदेव उवाच। 13-46-9x(6861)
एवं दत्त्वा वरान्देवो मम देवी च भारत।
अन्तर्हितः क्षणे तस्मिन्सगणो भीमपूर्वज॥ 13-46-9(83124)
एतदत्यद्भुतं पूर्वं ब्राह्मणायातितेजसे।
उपमन्यवे मया कृत्स्नं व्याख्यातं पार्थिवोत्तम।
नमस्कृत्वा तु स प्राह देवदेवाय सुव्रत॥ 13-46-10(83125)
नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः।
नास्ति शर्वसमो दाने नास्ति शर्वसमो रणे॥ ॥ 13-46-11(83126)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्चत्वारिंशोऽध्यायः॥ 46 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|